संस्कृत

 मित्राणि !  अत्र चित्रकूटे रामघट्टे राजाधिराजः शिवमत्तगजेन्द्रनाथः विराजते। अत्र कथ्यते जनैः साधुसन्तैश्च यत् अजन्मा ब्रहमा रामघट्टतो नातिदूरवर्तिनि यज्ञवेदि-अखाडापरिसरे यज्ञं कृतवान् आसीत् , तस्मात् यज्ञादेव राजाधिराजः शिवमत्तगजेन्द्रनाथः उन्मत्तगजेन्द्ररिव उत्पन्न: अभवत्। अयं चित्रकूटपरिक्षेत्रस्य रक्षक: अपि कथ्यते। क्रूर: अवरंगजेवः अपि अस्य शिवलिङ्गस्य हानिं प्रापयितुम् असमर्थः अभवत्। 

मित्राणि  ! अत्र  *शिवमत्तगजेन्द्रनाथस्तुतिः* प्रस्तूयते मयेति। विश्वसिमि यत् भवद्भ्य: अवश्यमेव रुचिकरं स्यात्। आशीर्ववचांसि प्रदीयन्ताम् .........

 

1.

*मन्दाकिनीतटविभूषितरामघट्टे,*

*राजाधिराजशिवरूपविराजमानं।*

*विश्वस्य सर्वजनदुःखविनाशकं तं,*

*नित्यं भजामि शिवमत्तगजेन्द्रनाथम्।।*


2.

*यज्ञाद् गजेन्द्रमिव मत्तमजन्मनस्तु,*

*दिव्यं कलं सरलचारुतरं प्रकाशम्।*

*उत्पन्नमत्तशिवलिङ्गविशेषरूपं,*

*नित्यं भजामि शिवमत्तगजेन्द्रनाथम्।।*


3.

*आज्ञां सलक्ष्मणविदेहसुताप्रियाय,*

*वासाय चित्रशिखरे खलु दत्तवन्तं,*

*तं भूतभावनमशेषजगत्प्रकाशं,*

*नित्यं भजामि शिवमत्तगजेन्द्रनाथम्।।*


4.

*बं बं करोत्यथ वि यं नृ शैवमतावलम्बी,*

*गङ्गाधरं निखिलदं गणनाथतातं,*

*गौरीपतिं निखिलपन्नगभूषणं तं,*

*नित्यं भजामि शिवमत्तगजेन्द्रनाथम्।।*

Comments

Popular posts from this blog

What is the most beautiful quote?

Facts kya hote hai ?

Blogger kya hai